Sunday, June 14, 2020

Kalidas

कालिदासस्य कृतिषु भारतीय-संस्कृतिः (२)

भारतीय-संस्कृतेः एकं वैशिष्ट्यम् विद्यते। अत्र जीवनस्य सर्वेषां पक्षाणां न केवलं स्वीकरणम् अपि तु समानं महत्त्वं च भवति। अस्य विषयस्य प्रतिपादनं कालिदासेन रघुकलस्य राज्ञः चरितानां वर्णने मनोहारि-रूपेण कृतम् अस्ति।

धर्मः, अर्थः, कामः मोक्षः च एते चत्वारः पुरुषार्थाः। एते सर्वे मानवजीवनस्य अभिन्नानि अङ्गानि इति अपि वक्तुं शक्यते। बाल्यावस्थायां बुद्धेः ग्रहणशक्तिः तीक्ष्णतरा वर्तते इति, अस्मिन् वयसि प्राप्ताः संस्काराः आजीवनं लाभप्रदाः भवन्ति, सदैव मनुष्यस्य उपकारिणः सन्ति इति कारणेन बाल्यात् आरभ्य पञ्चविंशतिवर्षपर्यन्तं विद्यार्जनं करणीयम् इति निर्दिष्टम्। ब्रह्मचर्यं पालयन्तः तस्मिन् काले गुरुकुले गुरुणा सर्वेऽपि समानरीत्या भावयन्ति स्म। सर्वे शिष्याः गुरोः आज्ञां पालयन्तः, अनुशासनेन परिश्रमेण च विद्यार्जनं कुर्वन्ति स्म। न कोऽपि धनाढ्यः सम्पन्नः इति विशेषरूपेण सत्क्रियते अथवा दरिद्रः विजातीयः इति विप्रकार्यते। अनेन समदर्शनः भावः स्वतः सर्वत्र दृश्यते स्म। किमपि अस्य विषये पाठनीयः कल्पनीयः वा न अभवत्, वस्तुतः सर्वे अनेन भावेन व्यवह्रियन्ते स्म, एतावदेव। एवं राजकुमाराः अपि समत्त्वस्य, सरलजीवनस्य कठिनश्रमस्य च व्यावहारिकं शिक्षणं प्राप्नुवन् । सर्वे छात्राः विद्या सर्वोपरि अस्ति इति जानतः श्रद्धया विद्यार्जनं अकुर्वन्। सर्वैः बालैः विद्वांसः पूजनीयाः इति एषः संस्कारः बाल्यात् एव साक्षात् दर्शनेन ज्ञायते स्म। उपदेशेन वा वारं वारं कथनेन वा विद्यार्थिषु तथा प्रभावः न जायते यथा ज्येष्ठैः कथं व्यवह्रियते, अनुष्ठीयते तस्य साक्षात् अनुकरणेन भवति इति तु विदितम् एव।

एवमेव रघुवंशीयाः राजानः यौवने गार्हस्थ्यधर्मं स्वीकृत्य भोगविलासानि सुखानि च अनुभवन्ति स्म। सत्पथेन सत्कर्मणा धनम् अर्जयन्ति स्म। गृहस्थाः  स्वे स्वे कर्मणि रताः अर्थं कामं च  पुरुषार्थौ पालयन्ति स्म।

सूर्यवंशीयाः महीपतयः वार्धके वानप्रस्थाश्रमं स्वीकुर्वन्ति स्म, आध्यात्मिकं विषयं प्रति अधिकं उन्मुखाः अभवन् । अन्तिमे काले तु योगेन शरीरं त्यजन्ति स्म।

शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ १-८॥

कालिदासेन रघुकुले जायमानाः राजानः किमर्थं कथं च पुरुषार्थम् अपालयन् इति अपि सम्यक् विवृतः अस्मिन् श्लोके –

त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ १-७
एते राजानः अर्थस्य संग्रहणम् अकुर्वन्। किमर्थम् इत्युक्ते स्वार्थसिद्ध्यर्थं वा भोगविलासार्थं वा इति न। दानाय, परोपकाराय, प्रजाभ्यः आनुकूल्यार्थमेव रघुकुलवंशीयाः धनसञ्चयम् अकुर्वन्। सत्यं वदन्तः ते मितं च सारं च भाषन्ते स्म। युद्धः क्षत्रियाणां धर्मः। दिलीपः आदयः नृपाः यशसे अयुध्यन्त, जेतुकामाः च आसन्। कुलस्य वर्धनाय, संरक्षणाय च गार्हस्थ्यधर्मं पालयन्ति स्म।

एवं रघुकुलवंशीयानां चरितं वर्णयन् कविः कालिदासः भारतीय-संस्कृतेः केचन अंशान् सोदाहरणं वर्णितवान्। चतुर्णां पुरुषार्थाणां कानि प्रयोजनानि, वर्णाश्रमाः के? ते कथं आचरेयुः इति प्रतिपादितवान् च।

Saturday, June 13, 2020

Kalidasa kavitha

కాళిదాసు రచించిన
कालिदासः भारतीय-संस्कृतिः च
कविकुलगुरुः कालिदासः रघुवंशे काव्ये सूर्यवंशीयानां राज्ञां विषये व्यवृणोत्। राज्ञां गुणान् विवृत्य कविः भारतस्य संस्कृतेः विषये अपि अनेकान् विषयान् प्रतिपादितवान्।
वृद्धत्वं इति शब्देन प्रायः वयोवृद्धत्वस्य एव बोधः भवति। रघुवंशीयाः आयुषा वृद्धाः न। किन्तु ते शीलवृद्धाः, ज्ञानवृद्धाः, वैराग्यवृद्धाः च।

सर्वविधं वार्धक्यं सम्मानं अपेक्ष्यते। वयोवृद्धाः सम्माननीयाः! जनाः तेषां आशीः सदैव आप्नुयुः।

वार्धक्यं चतुर्विधम् अस्ति। शास्त्रेषु अस्य किञ्चित् विवरणम् दृश्यते। वयोवृद्धत्वं, शीलवृद्धत्वं, ज्ञानवृद्धत्वं वैराग्यवृद्धत्वञ्चेति। एतदपि सूचितं तत्र यत् एषु चतुर्षु उत्तरोत्तरं अधिकं श्रेष्ठतरं वृद्धत्वं किमिति। वयोवृद्धत्वात् शीलवृद्धत्वं, शीलवृद्धत्वात् ज्ञानवृद्धत्वं, ज्ञानवृद्धत्वात् वैराग्यवृद्धत्वं श्रेष्ठतरम् इति।
मनुस्मृति-ग्रन्थे मनुः ऋषिः अपि उक्तवान् –

न तेन वृद्धो भवति येनास्य पलितं शिरः।
युवाप्यधीयानस्तं देवाः स्थविरं विदुः।। २/१५६ मनुस्मृतिः

राजा दिलीपस्य गुणान् वर्णयन् कालिदासः वदति –
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः,
तस्य धर्मरतेरासीत् वृद्धत्वं जरसा विना।।

रघुकुले उत्पन्नः दिलीपराजस्य वयो-वार्धक्यं विना वृद्धत्वम् आसीत् । सः सदैव धर्मरतः आसीत्। सः, तस्य अनुयायिन्यः प्रजाः च रेखामात्रमपि मनुना प्रणीतेन मार्गेण विक्षुण्णाःः न भवन्ति स्म। अतः दिलीपः शीलवृद्धः। सर्वासु विद्यासु पारङ्गतः सः ज्ञानवृद्धः। विषयवस्तूनां प्रति सः न कदापि आकृष्टः अभवत् इति कारणात् तस्य वैराग्यवृद्धत्वम् अपि सिद्धम् । एवं दिलीपः राजा शीलात्, ज्ञानात्, वैराग्यात् च प्रौढताम् प्राप्नोत्। वयोवृद्धः न सन्नपि तस्य वार्धक्यम् आसीत्।

अहो वाग्मिता कालिदासस्य! भारतस्य संस्कृतिं प्रति कियती श्रद्धा, कियान् गौरवः, भारतीयसंस्कृतेः कियत् ज्ञानं च।