स्वातंत्र्यदिनोत्सवं ञगत्याःनेत्रोत्सवं
मिन्नेकन्टि नागराजु
ప్రపంచంలో అతి ప్రాచీనమైన సంస్కృతి భారతీయ సంస్కృతి .వేద కాలం నుండి విద్యా వైజ్ఞానిక రంగాలలో విశ్వ గురుత్వాన్ని పొందిన గొప్ప వారసత్వానికి మనం వారసులం అహింసా సిద్ధాంతాన్ని ఆచరించి చూపిన మహోన్నత ధర్మతత్వానికి ప్రతీకలం . విదేశీయుల దురా క్రమణలకు లోనై యావత్ భారతం దాస్యంతో గడిపి శక్తివంతమైన ఆంగ్లేయుల పాలన నుండి మనం నమ్ముకున్న అహింసాయుత మార్గంలో స్వేచ్ఛా వాయువులు పీల్చుకున్న సుదినంనేటి పర్వదినంఆగస్టు 15 స్వాతంత్ర్య దినోత్సవం. ప్రపంచం నిద్రపోతున్నప్పుడు అర్ధరాత్రి సమయంలో భారతదేశ० స్వేచ్ఛ కోసం మేలుకుంటుందన్న నెహ్రూ మహాశయుని మాటలు నిజం చేస్తూ ప్రపంచంలో స్వాతంత్ర్య ఉద్యమాలకు దిక్సూచిగా మారి భిన్నత్వంలో ఏకత్వాన్ని సాధించి అందరికీ ఆదర్శంగా, వసుదైక కుటుంబం అనే భావాన్ని విశ్వవ్యాపితం చేస్తున్న భారతదేశ వైభవాన్ని, స్వాతంత్ర్యాన్ని సిద్దింపచేసిన అమరవీరుల త్యాగాలను స్వాతంత్ర్యోద్యమ నాయకుల త్యాగాలనుగుర్తు చేసుకుంటూ వారి వారసత్వాన్ని మనం గౌరవిద్దాం. స్వాతంత్ర్యోద్యమ స్ఫూర్తినుండి ప్రేరణ పొంది మరింత ప్రతిభి వంతగా మనం పయనం సాగిద్దాం. స్వాతంత్ర్య దినోత్సవం జగతికి నేత్రో త్సవం అనే ప్రసంగంలో స్వాతంత్రోద్యమ నేపథ్యాన్ని స్వాతంత్ర వీరుల త్యాగ ఫలాలను ఆశయాలను వారు నిర్దేశించిన ప్రజాస్వామ్య పద్దతి ని అనుసరిస్తూ భారతదేశం సాధించిన ప్రగతిని భారతీయుల వైభవాన్ని ఈ ప్రసంగంలో అవలోకిద్దాం
भारतीय संस्कृतिःएव विश्वस्य प्राचीनतमा संस्कृतिःअस्ति। वैदिक कालादारभ्य विद्या विज्ञान क्षेत्रेषु विश्वगुरुत्वं प्राप्तवत्याःतस्याःमहान् वारसत्वतायाःवयं वारसाःस्मः।अहिंसासिद्धान्तं धर्मतत्त्वं आध्यात्मिक तत्व चिन्तनं इति भावनयाःप्रतिरूपाःवयम्। विदेशीयाः दुराक्रमणानां कारणेन दास्येन यावत्भारतं दास्यं अनुभवति ।शक्तिशालिनां आङ्ग्लेयानां शासनात् अहिंसामार्गे दृढविश्वासेनैव स्वातन्त्र्यस्य वायुंपपिमः।सएवपवित्रोदिनः, पर्वदिनः आगस्तमासस्यपञ्चदशः (१५) — स्वातन्त्र्यदिनोत्सवः। जगतिनिद्रितेसति अर्धरात्रिसमयेभारतदेशःस्वातन्त्र्यायजागरिष्यति इति नेहरू महोदयस्यवचनं सत्यंकृतंभारतदेशः । विश्वस्य स्वातन्त्र्योद्यमानां दिग्दर्शकःसञ्जातः। भिन्नत्वेअपि एकत्वं भारतस्य वैशिष्ट्यम्।सर्वेषाम् आदर्शःभूत्वा वसुधैवकुटुम्बकम् इतिभावनां विश्वव्यापिनीं कृतम्।
स्वतन्त्रता मानवस्य स्वभावोअस्ति।अल्पवयस्कबालकोऽपि कस्यापि नियन्त्रणे वसितुं नवाञ्छति।
"स्वातन्त्र्यंपरमंधनम्" इतिप्राचीनवाक्यं भारतस्य स्वातन्त्र्यसंग्रामे साकारतांप्राप्तम्।1947 तमेवर्षेआगष्टमासस्य पञ्चदशेदिनाङ्केभारतं ब्रिटिशशासनात्मुक्तम्अभवत्।अस्मिन्यज्ञे लाला लजपति महोदयः बाल गङ्गाधर तिलक महाशयः महात्मागान्धी, सुभाषचन्द्रबोस्, भगतसिंहः, सरदारपटेलःइत्यादयःअनेक वीराःस्वप्राणैःअपि स्वदेशायआहुतिम्अयच्छन्। भारतीय स्वातंत्र्योद्यम ऐतिहासिकंअति दीर्घः अस्ति।आंग्लेयजनाःव्यापार व्याजेनभारतंआगच्छन्।अननारं स्वकुटिलनीत्याअस्यदेशस्यउपरिअधिकारंकृतवन्तः।परस्परविवादेनिमग्नाः भारतीयाःतेषाम्आङ्ग्लजनानांदास्यशृङ्खलासु निबद्धाःसञ्जाताः।कालानन्तरं भारतीयाःस्वत्रुटि विचिन्त्य दास्यश्रृङ्खलां त्रोटयितुं प्रयत्नं कृतवन्तः।प्लासीयुद्धेन ईस्ट्इण्डियाकम्पनी भारतेप्रविष्टा। तदारभ्य भारतस्य वैशिष्ट्यम् विच्छिन्नं अभवत्। सांस्कृतिक विद्या वैज्ञानि विषयेषु न्यूनं अजायत।
1857 तमेवर्षे प्रथमस्वातन्त्र्यसमरः (सिपाहिविद्रोहः) अभवत् , यत्र झान्सीराणीलक्ष्मीबाई, तात्याटोपे इत्यादयःयोधाःअग्रेसरःआसन्। भारतदेशेमहत् उद्यमः समुद्भूता, या "प्रथमःस्वातन्त्र्यसमरः" इतिप्रसिद्धा। अयंसङ्ग्रामः मेरठ्-नगरस्यसैनिक अश्वारोहकैः महतासाहसेन प्रारब्धः।तत्र मङ्गलपाण्डेयः नामयोद्धाप्रमुखःप्रेरकःआसीत्। प्रथम स्वातन्त्र्यं
सङ्ग्रामस्य कारणानि बहूनिआसन्: Iईष्टइण्डिया-कम्पनी-शासनेन भारतीयानां प्रतिघोराः आर्थिकाः सामाजिकाश्च दुरागताःसंजातः। एन्फिल्ड्-बन्दुकानाम्कारतूसेषु गोमांस-सूकरमांसचर्वितचर्म योजनम्, यत्हि न्दु मुस्लिमयोःधार्मिकभावना विरोधं आसीत्।भारतीयसैनिकानाम् वेतनपदोन्नतिषुभेदभावः।
विस्तारः अशान्तेःतडित् इव देशेव्याप्तः। दिल्ली नगरं उद्यमकारिभिःआधीनं अभवत् ।बहादुरशाहजफरः मुगलसम्राट् समरस्यप्रतीकम्अभवत्- लखनऊ, कानपुर, झांसी, इलाहाबाद, बिहार-बङ्गालप्रदेशेषु रानीलक्ष्मीबाई, नानासाहेब, कुँवरसिंहादयः वीराःनेतारःआसन्। तथापि आङ्ग्लेयानां सैन्य सं पत्या कपट मार्गेन उद्यम नायकत्वं अभावेन अनैक्यतादि विविध कारणेन उद्यमः नष्टं जातम्।
किन्तु प्रथमस्वातन्त्र्यसमरः परिणामाः मिश्रिताःआसन्:
ब्रिटिशसैन्यैःप्रबलप्रतिकारेण यावत् पर्यन्तम् क्रान्तिःदमिता। ईष्टइण्डिया-कम्पनी-शासनम्समाप्तम् अभवत् ।लघुशासन प्रणाल्या भारतं प्रत्यक्षं ब्रिटीष् शासनम् प्रचलति।
तदा अपि प्रथम स्वातन्त्र्यं संग्रामस्य ऐतिहासिकंमहत्त्वम् बृहत्तमं।- एषः प्रथमःपञ्जाब-बङ्गाल-मध्यभारतसमवेतःजनान्दोलनः आसीत्, यस्मिन्हिन्दुमुस्लिमसिखजैनाःसर्वेएकतांप्रदर्शितवन्तः।
राष्ट्रवादभावनायाःप्रबल बीजरोपणम्अकरोत्। आङ्गलैःस्वप्रभुत्व रक्षणार्थ स्वतन्त्र्योद्यम नायकानां दमनंप्रबलतयाकृतम्आसीत्।ते सर्वेभ्यःदेशभक्तेभ्यश्च कठिनं शासनम् महतीं दत्तवन्तः। किन्तु एताः देशभक्ताःभारतीयाःस्वतन्त्रता संघर्षात्विमुखाःनअभवन्। देशभक्ताःअपि महती योगदानं कृतवन्तः।शनैःशनैःआंग्लेय शासकाःभारतीयानां स्वातन्त्र्य संघर्षे पराजिताःअभवन्। महात्मागान्धी "सत्याग्रहं "अहिंसा" इतिमार्गेण जनानाम् ऊर्जाम् एकत्रीकृतवान्। सत्याग्रहैः उद्यमः कारिणां बलिदानैश्चन वा गान्धिनाप्रज्वालितःस्वातन्त्र्यदीपःनेताजी-पटेल-नेहरू-मौलानाआजादादिभिःनेतृभिःसर्वैःसमवेत प्रयासैः प्रज्वलितः सन् देशभक्तानां दीर्घकालिक प्रयत्नं सफलसञ्जातम्, भारतमाता मुक्ता जाता पारतन्त्र्य शृङ्खलाभिः।१९४७तमेवर्षेविजय दीपिकेवप्रकाशितः। स्वतन्त्रतादिवस-भारतीयजनानां गर्वस्य गौरवस्य च आस्पदंविद्यते।परतन्त्रता स्वर्गोपमम् अपि सुखंनगण्यम्। स्वातन्त्र्येअल्पमपि सुखम्स्वर्गसुखमिवप्रतिभाति।एतदर्थंदेशभक्तैःअहिंसामार्गंअवलम्ब्यचरितार्थोऽभवत्। अस्मिन्अवसरे देशसंरक्षणार्थ सर्वैःदेशवासिभिःयेनकेनापि प्रकारेणसङ्कल्पं गृह्यते।
अस्मिन्दिवसेसम्पूर्णेऽपिभारतेदेशेप्रातःकाले 'ध्वजारोहणं' 'प्रभातभेरी' 'प्रमुखभाषणानि''मधुरभक्ष्याणांवितरणञ्च प्रभृतीनिकार्याणिक्रियन्ते।।तत्स्वातन्त्र्यं सम्पादयितुं येअमरवीराःस्वातन्त्र्य सेनानयकाश्च स्वीयान्प्राणान्अर्पितवन्तःतेषांतेषां त्यागंस्मृत्वा तद्वारसत्कारं गौरवेण धारयामः । तेभ्यः प्रेरिताःसन्तः,अधिकं प्रकाशमयंभविष्यत्निर्माय,प्रगतिपथेअग्रेगच्छामः।तत्स्वातन्त्र्यंसम्पादयितुंयेअमरवीराःस्वातन्त्र्यसेनानयकाश्चस्वीयान्प्राणान्अर्पितवन्तः, तेषांतेषां त्यागंस्मृत्वा तद्वार सत्कारं गौरवेणधारयामः। स्वातन्त्र्यंकेवलंशासनपरिवर्तनंन, अपितुजनतायाःकर्तव्यबोधस्यआरम्भः। दिल्ली निर्यात स्वतन्त्रतादिवसस्य उत्सवं विशेषतां भजते। एतत् पर्वं 'लालकिला' इत्यस्मिन् स्थाने सम्पद्यते। देशस्य प्रधानमन्त्री 'लालकिला' स्थानस्य प्राचीरादेव देशवासिनां कृते संदेशं ददाति। अस्मिन्नवसरे सर्वे जनाः तान् देशभक्तान् श्रद्धया स्मरन्ति, येषां प्रयत्नैः अस्माभिः स्वतन्त्रता प्राप्ता। तत्र प्रधानमन्त्री ध्वजारोहनं च करोति ।
वर्तमाने भारतं विश्वरङ्गे निम्नलिखितेषु रूपेषु एकं वर्धमानं महत्त्वपूर्णं शक्तिकेन्द्रं स्थानं गृह्णाति: विश्वस्य पञ्चमं महत्तमं अर्थव्यवस्था सर्वाधिकवेगेन वर्धमाना प्रमुखा अर्थव्यवस्था अस्ति। सेवाक्षेत्रे (विशेषतः विनिर्माणक्षेत्रे च नेतृत्वं करोति। स्टार्टअप्-इकोसिस्टम् विश्वस्य तृतीयं महत्तमम् अस्ति। डिजिटलायाः अग्रगामी अस्य डिजिटलस्वरूपम् अन्यदेशेभ्यः आदर्शरूपेण दृश्यते। सांस्कृतिकमृदुशक्तिः योगस्य, आयुर्वेदस्य,वैशिष्ट्यम् भजते। वैज्ञानिका माध्यमेन विश्वस्य संस्कृतौ गभीरं प्रभावं निर्माति। तस्य प्राचीनज्ञानं वर्तमानसमस्यानां समाधाने साहाय्यं करोति।अन्तरिक्षक्षेत्रे वैज्ञानिकतन्त्रज्ञानप्रगति चन्द्रयान मङ्गलयान सौरोर्जा, परमाणुशक्तौ च महतीं कुशलतां प्रदर्शितः स्वदेशीयाणि उपग्रहप्रक्षेपणानि सस्तिनि विश्वसनीयानि च सन्ति। साइबर सुरक्षा, कृत्रिमबुद्धिः ( इत्यादिषु क्षेत्रेषु सक्रियः। भारतं केवलं पुरातनसंस्कृतेः अधिदेवता न, अपितु वैश्विकप्रगतेः, नवप्रवर्तनस्य, नैतिकसंतुलनस्य च प्रमुखः स्तम्भः अभवत्। तस्य आर्थिकं बलं, तान्त्रिककुशलता, सांस्कृतिकं प्रभावः, जनसङ्ख्यालाभश्च तं एकः विंशति तमशताब्द्याः निर्णायकशक्तित्वेन स्थापयन्ति। सः निरन्तरं स्वस्य प्रभावं वर्धयन् विश्वस्य भविष्यरचनायां केन्द्रीयां निर्वहति। अतः एव स्वातन्त्र्यदिनोत्सवःजगत्याःनेत्रोत्सवःइति मम विश्वासः।